वांछित मन्त्र चुनें

यो होतासी॑त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒माञ्ज॒न्नाज्ये॑ना वृणा॒नाः । स प॑त॒त्री॑त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे॑दाः ॥

अंग्रेज़ी लिप्यंतरण

yo hotāsīt prathamo devajuṣṭo yaṁ samāñjann ājyenā vṛṇānāḥ | sa patatrītvaraṁ sthā jagad yac chvātram agnir akṛṇoj jātavedāḥ ||

पद पाठ

यः । होता॑ । आसी॑त् । प्र॒थ॒मः । दे॒वऽजु॑ष्टः । यम् । स॒म्ऽआञ्ज॑न् । आज्ये॑न । वृ॒णा॒नाः । सः । प॒त॒त्रि । इ॒त्व॒रम् । स्थाः । जग॑त् । यत् । श्वा॒त्रम् । अ॒ग्निः । अ॒कृ॒णो॒त् । जा॒तऽवे॑दाः ॥ १०.८८.४

ऋग्वेद » मण्डल:10» सूक्त:88» मन्त्र:4 | अष्टक:8» अध्याय:4» वर्ग:10» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः-जातवेदः) जो जातप्रज्ञान-सर्वज्ञ विश्वनायक परमात्मा (प्रथमः-होता) सृष्टियज्ञ का प्रथम प्रसारक है (देवजुष्टः) मुमुक्षुओं द्वारा सेवित स्तुतियोग्य है (यम्-आज्येन) जिसको स्वात्म समर्पण से­-ध्यानयज्ञ से (आवृणानाः) स्वीकार करते हुए-अपनाते हुए (समाञ्जन्) सम्यक् साक्षात् करते हैं, (सः) वह (पतति-इत्वरं स्थाः-जगत्) पक्षी को, सरीसृप को, वृक्षादि को, मनुष्यादि जङ्गम को, (यत्-श्वात्रम्) जो सब है, तुरन्त (सः-अग्निः-अकृणोत्) वह परमात्मा उत्पन्न करता है ॥४॥
भावार्थभाषाः - परमात्मा वृक्षादि जड़ तथा मनुष्य पशु पक्षी जङ्गम सृष्टि का उत्पन्न करनेवाला है, मुमुक्षु जन उसे ध्यानयज्ञ द्वारा अपने में साक्षात् करते हैं ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः-जातवेदाः) यो जातप्रज्ञानः सर्वज्ञो वैश्वानरो विश्वनायकः परमात्मा (प्रथमः-होता) सृष्टियज्ञस्य प्रथमो होता प्रसारयितास्ति (देवजुष्टः) देवैर्मुमुक्षुभिः सेवितः स्तवनीयः (यम्-आज्येन) यं च मुमुक्षवः स्वात्मसमर्पणेनाध्यात्मयज्ञेन “यज्ञो वाऽऽज्यः” [को० १३।७] “यज्ञो वा यजमानस्यात्मा” [को० ४।१४] (आवृणानाः) स्वीकुर्वाणाः (सम् आञ्जन्) सम्यक् साक्षात् कुर्वन्ति (सः-पतति-इत्वरम्-स्थाः-जगत्) स पक्षिणं सरीसृपं स्थावरं वृक्षादिकं जङ्गमं मनुष्यादिकं च (यत्-श्वात्रम्) यत् सर्वं सद्यः (सः-अग्निः-अकृणोत्) स परमात्मा करोति-उत्पादयति ॥४॥